|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.54. अध्यायः 054
Mahabharata - Bhishma Parva - Chapter Topics
भीमसेनेन कलिङ्गादिवधः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-54-0x(4119)(40900)
मम पुत्रसमादिष्टः कलिङ्गोः वाहिनीपतिः।
कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥ 6-54-1(40901)
चरन्तं गदया वीर दण्डहस्तमिवान्तकम् ।
योधयामास समरे कलिङ्गः सह सेनया ॥ 6-54-2(40902)
सञ्जय उवाच। 6-54-3x(4120)
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥ 6-54-3(40903)
तामापतन्तीं महतीं कलिङ्गानां महाचमूम्।
रथाश्वनागकलिलां प्रगृहीतमहायुधाम् ॥ 6-54-4(40904)
भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् ।
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ 6-54-5(40905)
ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह।
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ 6-54-6(40906)
रथैरनेकसाहस्रैः कलिङ्गानां नराधिप ।
अयुतेन गजानां च निषादैःक सह केतुमान् ॥ 6-54-7(40907)
भिमसेनं रणे राजन्समन्तात्पर्यवारयत् ।
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः ॥ 6-54-8(40908)
अभ्यधावन्त समरे निषादान्सह राजभिः ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ 6-54-9(40909)
न प्राजानन्त योधाः स्वान्परस्परजिघांसया ।
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ॥ 6-54-10(40910)
यथेन्द्रस्य महाराज महत्या दैत्यसेनया।
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ॥ 6-54-11(40911)
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः।
अन्योन्यं स्म तदा योधा विकर्षन्तो विशांपते ॥ 6-54-12(40912)
महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् ।
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ॥ 6-54-13(40913)
स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः।
विमर्दः सुमहानासीदल्पानां बहुभिः सह ॥ 6-54-14(40914)
कलिङ्गैः सह चैदीनां निषादैश्च विशांपते ।
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ॥ 6-54-15(40915)
भीमसेनं परित्यज्य संन्यवर्तनक्त चेदयः।
सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु ॥ 6-54-16(40916)
स्वबाहुबलमस्थाय अभ्यवर्षन्त पाण्डवम् ।
न चचाल रथोपस्थाद्भीमसेनो महाबलः ॥ 6-54-17(40917)
शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् ।
कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ॥ 6-54-18(40918)
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः।
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ॥ 6-54-19(40919)
योधयामास कालिङ्गं स्वबाहुबलमाश्रितः।
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ॥ 6-54-20(40920)
अश्वाञ्जघान समरे भीमसेनस्य सायकैः।
तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम् ॥ 6-54-21(40921)
शक्रदेवोऽभिदुद्राव शरैरवकिरञ्सितैः।
भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः ॥ 6-54-22(40922)
ववर्ष शरवर्षाणि तपान्ते जलदो यथा।
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ॥ 6-54-23(40923)
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्।
स तया निहतो राजन्कालिङ्गतनयो रथात् ॥ 6-54-24(40924)
विरथः सह सूतेन जगाम धरणीतलम्।
कहतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ॥ 6-54-25(40925)
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ।
`अयुतेन गजानां च निषादैः परिवारितः।'
ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदां ॥ 6-54-26(40926)
निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् ।
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ॥ 6-54-27(40927)
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ।
कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च ॥ 6-54-28(40928)
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्।
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ 6-54-29(40929)
तमापतन्तं वेगेन प्रेरितं निशितं शरम्।
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ 6-54-30(40930)
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ।
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे ॥ 6-54-31(40931)
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्।
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ॥ 6-54-32(40932)
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना।
नित्यत्य तु रणे भीमस्तोमरान्वै चतुर्दश ॥ 6-54-33(40933)
भानुमन्तं ततो भीमः प्राद्रवत्पुरुषर्षभः ।
भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन् ॥ 6-54-34(40934)
ननाद बलवन्नादं नादयानो नभस्तलम्।
न च तं ममृषे भीमः सिंहनादं महाहवे॥ 6-54-35(40935)
ततः शब्देन महता विननाद महास्वनः।
तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी ॥ 6-54-36(40936)
न भीमं समरे मेने मानुषं भरतर्षभ ।
ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम् ॥ 6-54-37(40937)
सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् ।
आरुरोह ततो मध्यं नागराजस्य मारिष ॥ 6-54-38(40938)
ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्वीधा ।
खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ 6-54-39(40939)
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः।
गुरुभारसहे स्कन्धे नागस्यासिमपातयत् ॥ 6-54-40(40940)
छिन्नस्कन्धः स विनदन्पपात गजयूथपः।
आरुगणः सिन्धुवेगन सानुमानिव पर्वतः ॥ 6-54-41(40941)
ततस्तस्मादप्लुत्य गजाद्भारत भारतः।
खङ्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः ॥ 6-54-42(40942)
स चचार बहून्मार्गानभितः पातयन्गजान् ।
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥ 6-54-43(40943)
अश्वबृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः। 6-54-44(40944)
श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः।
छिन्दंस्तेषाकं शरीराणि शिरांसि च महाबलः ॥ 6-54-45(40945)
खङघ्गेकन शितधारेण संयुगे गजयोधिनाम्।
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः॥ 6-54-46(40946)
संमाहयामास स तान्कालान्तकयमोपमः।
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ॥ 6-54-47(40947)
सासिमुत्तमवेगेन विचरन्तं महारणे।
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च ॥ 6-54-48(40948)
जघान रथिनश्चापि बलवान्रिपुमर्दनः।
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत॥ 6-54-49(40949)
भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् ।
संपातं समुदीर्णं च दर्शयामास पाण्डवः ॥ 6-54-50(40950)
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना।
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥ 6-54-51(40951)
छइन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे ।
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः । 6-54-52(40952)
निपेतुरुर्व्यां च तथा विनदन्तो महारवान्।
छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च ॥ 6-54-53(40953)
परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः।
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ॥ 6-54-54(40954)
तूणीरानथ यन्त्राणि धनूंषि च।
भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह ॥ 6-54-55(40955)
घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि ।
पततः पातितांश्चैव पश्यामः सह सादिभिः ॥ 6-54-56(40956)
छिन्नगात्रावरकरैर्निहतैश्चाप वारणैः ॥
आसीद्भूमिःक समास्तीर्णा पतितैर्भूधरैरिव ॥ 6-54-57(40957)
विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः ।
अश्वारोहवरांश्चैव पातयामास संयुगे ॥ 6-54-58(40958)
तद्धोरमभवद्युद्धं तस्य तेषां च भारत।
खलीनान्यथ योक्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥ 6-54-59(40959)
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः।
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ॥ 6-54-60(40960)
तत्रतत्रापविद्धआनि व्यदृश्यन्त महाहवे।
प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ॥ 6-54-61(40961)
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ।
आप्लुत्य रथिनः काश्चित्परामृश्य महाबलः ॥ 6-54-62(40962)
पातयामास खङ्गेन सध्वजानपि पाण्डवः।
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनःक ॥ 6-54-63(40963)
मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः ।
स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत् ॥ 6-54-64(40964)
खह्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्।
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ॥ 6-54-65(40965)
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः।
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ॥ 6-54-66(40966)
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्।
ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ ॥ 6-54-67(40967)
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्।
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः । 6-54-68(40968)
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ।
कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः ॥ 6-54-69(40969)
भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः।
अथाशोकः समादाय रथं हेमपरिष्कृतम् ॥ 6-54-70(40970)
भीमं संपादयामास रथेन रथसारथिः।
तामरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ॥ 6-54-71(40971)
कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् ।
ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान् ॥ 6-54-72(40972)
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्।
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ॥ 6-54-73(40973)
समाहतो महाराज कलिङ्गेन महात्मना ।
संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः ॥ 6-54-74(40974)
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः।
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥ 6-54-75(40975)
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ ।
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥ 6-54-76(40976)
ततः पुनमेयात्मा नासचैर्निशितैस्त्रिभिः ।
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ 6-54-77(40977)
ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् ।
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥ 6-54-78(40978)
ततः शक्तिगदाखङ्गतोमरर्ष्टिपरश्वथैः ।
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥ 6-54-79(40979)
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्।
गदामादाय तरसा संनिपत्य महाबलः ॥ 6-54-80(40980)
भीमः सप्तशतान्वीराननयद्यमसादनम् ।
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ॥ 6-54-81(40981)
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्।
एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः ॥ 6-54-82(40982)
बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् ।
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे ॥ 6-54-83(40983)
विप्रजग्मुरनीकेषु मेघा वातहता इव।
मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥ 6-54-84(40984)
ततो भीमो महाबाहुः खङ्गहस्तो महाभुजःक ।
संप्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली ॥ 6-54-85(40985)
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ।
मोहश्चापि कलिङ्गानामाविवेश परंतप ॥ 6-54-86(40986)
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ।
भीमेन समरे राजन्गजेन्द्रेणेव सर्वशः ॥ 6-54-87(40987)
मार्गान्बहून्विचरता धावता च ततस्ततः।
मुहुरुत्पतता चैव संमोहः समपद्यत॥ 6-54-88(40988)
भीमसेनभयत्रस्तं सैन्यं च समकम्पत।
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥ 6-54-89(40989)
त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा ।
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥ 6-54-90(40990)
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥ 6-54-91(40991)
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः।
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥ 6-54-93aधर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः।
महता मेघवर्णेन नागानीकेन पृष्ठतः॥ 6-54-92(40992)
एवं संनोद्य सर्वामि स्वान्यनीकानि पार्षतः।
भीमसेनस्य जग्राह पार्ष्णि सत्पुरुषैर्वृतः ॥ 6-54-94(40993)
न हि पञ्चालराजस्य लोके कश्चन विद्यते।
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥ 6-54-95(40994)
सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः ।
भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ 6-54-96(40995)
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः।
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ 6-54-97(40996)
स च पारावताश्वस्य रथे हेमपरिष्कृते।
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् । 6-54-98(40997)
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ॥
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥ 6-54-99(40998)
तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।
कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ । 6-54-100(40999)
स तत्र गत्वा शैनेयो जवेन जयतां वरः।
पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः ॥ 6-54-101(41000)
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः ।
आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत ॥ 6-54-102(41001)
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्।
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥ 6-54-103(41002)
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्।
तां संततार दुस्तारां भीमसेनो महाबलः ॥ 6-54-104(41003)
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप।
कालोऽयं भीमरूपेण कलिङ्गैः कसह युध्यते ॥ 6-54-105(41004)
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे।
अभ्ययात्त्वरितो भीमं व्यूढानीकः समंततः ॥ 6-54-106(41005)
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 6-54-107(41006)
परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे।
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्च्छुरोजसा ॥ 6-54-108(41007)
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव ।
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥ 6-54-109(41008)
ततः शरसहस्रेण सन्निवार्य महारथान् ।
हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः ॥ 6-54-110(41009)
हताश्वे स रथे तिष्ठन्भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥ 6-54-111(41010)
अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव ।
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥ 6-54-112(41011)
ततः शैक्यायसीं गुर्वी प्रगृह्य बलवान्गदाम् ।
भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ ॥ 6-54-113(41012)
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।
गाङ्गेयसारथिं तूर्णं पातयामास सायकैः ॥ 6-54-114(41013)
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः ।
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ 6-54-115(41014)
भीमसेनस्ततो राजन्नपयाते महाव्रते ।
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥ 6-54-116(41015)
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत।
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥ 6-54-117(41016)
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः।
पश्यतां सर्वसैन्यानामपोवाहक यशस्विनम् ॥ 6-54-118(41017)
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥ 6-54-119(41018)
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥ 6-54-120(41019)
दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान ।
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥ 6-54-121(41020)
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।
महापुरुषभूयिष्ठो धीरयोधनिषेवितः ॥ 6-54-122(41021)
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ।
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम।
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥ 6-54-123(41022)
ततः स्वरथमास्थाय पुनरेव महारथः ।
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥ ॥ 6-54-124(41023)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे चतुःपञ्चाशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-54-34 भानुमन्तं कलिङ्गात्मजम् ॥ 6-54-40 अन्तरायुधिनं गजारूढयोधम् ॥ 6-54-43 आविद्धं भ्रामितम् ॥ 6-54-47 कालान्तकयमोपमः प्रलयकालीननाशकयमतुल्यः ॥ 6-54-53 महामात्रो हस्तिपकः ॥ 6-54-54 कणपान् मुद्गरान् ॥ 6-54-57 गात्रावरैर्गात्रैः पूर्वकायैः अवररधःकायैः ॥ 6-54-59 खलीनानि अश्वास्यनिवेश्यनि अडिआलीती प्रसिद्धानि। कक्ष्या गजमध्यबन्धनम् ॥ 6-54-70 अशोको विशोकः ॥ 6-54-108 आनर्च्छुः आच्छादितवन्तः ॥ 6-54-115 वातायमानैः इतस्ततो धावद्भिः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|